वांछित मन्त्र चुनें

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते । न ता वाजे॑षु वायतः ॥

अंग्रेज़ी लिप्यंतरण

prati prāśavyām̐ itaḥ samyañcā barhir āśāte | na tā vājeṣu vāyataḥ ||

पद पाठ

प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ । न । ता । वाजे॑षु । वा॒य॒तः॒ ॥ ८.३१.६

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:6 | अष्टक:6» अध्याय:2» वर्ग:39» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनरपि दम्पती का वर्णन है। जो स्त्री और पुरुष (सम्यञ्चा) अच्छे प्रकार सङ्गत होकर (बर्हिः) यज्ञ (आशाते) करते हैं, (ता) वे (प्राशव्यान्) भोज्य पदार्थ (प्रतीतः) पाते हैं और (वाजेषु) अन्नों के लिये (न+वायतः) कहीं अन्यत्र नहीं जाते ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - पुनरपि दम्पती विशिनष्टि। यथा−यौ दम्पती। सम्यञ्चा=सम्यञ्चौ समीचीनतया संगतौ भूत्वा। बर्हिर्यज्ञम्। आशाते द्रव्यादिभिर्व्याप्नुतः कुरुत इत्यर्थः। ता=तौ सुप्रसिद्धौ दम्पती। प्राशव्यान् अश भोजने। प्राशनं प्राशुः प्राशौ साधून् हितान् वा प्राशव्यान् भोज्यान् पदार्थान्। प्रतीतः प्रतिगच्छतः प्राप्नुतः। पुनः तौ वाजेषु अन्नेषु न वायतः वयतिर्गत्यर्थः न गच्छतः। नान्यत्रान्नार्थं गच्छतः ॥६॥